स्वर्णाकर्षणभैरवस्तोत्रम्
ॐ अस्य श्रीस्वर्णाकर्षणभैरवस्तोत्रं मन्त्रस्य बह्मऋषिः अनुष्टुप् छन्दः श्रीस्वर्णाकर्षणभैरवदेवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठ विनियोगः ।
ऋष्यादिन्यासः :-
ब्रह्मर्षये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
स्वर्णाकर्षणभैरवाय नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सः कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।
ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥
अथ ध्यानम् :-
– पारिजात द्रुम कान्तारे स्थिते माणिक्यमण्डपे सिंहासन गतं वन्दे भैरवं स्वर्णदायकं गाङ्गेय पात्रं डमरूं त्रिशूलं वरं करः सन्दधतं त्रिनेत्रं देव्यायुतं तप्तस्वर्णवर्ण स्वर्णाकर्षणभैरवमाश्रयामि ॥
मन्त्रः – ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामल वद्धाय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ।
अथ स्तोत्रम् :-
ॐ नमस्ते भैरवाय ब्रह्मविष्णुशिवात्मने । नमस्त्रैलोक्य वन्ध्याय वरदाय वरात्मने ॥ १॥ रत्नसिंहासनस्थाय दिव्याभरण शोभिने । दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ २॥ नमस्तेऽनेक हस्ताय अनेक शिरसे नमः । नमस्तेऽनेक नेत्राय अनेक विभवे नमः ॥ ३॥ नमस्तेऽनेक कण्ठाय अनेकांसाय ते नमः । नमस्तेऽनेक पार्श्वाय नमस्ते दिव्य तेजसे ॥ ४॥ अनेकायुध युक्ताय अनेक सुर सेविने । अनेक गुण युक्ताय महादेवाय ते नमः ॥ ५॥ नमो दारिद्र्यकालाय महासम्पद्प्रदायिने । श्रीभैरवी संयुक्ताय त्रिलोकेशाय ते नमः ॥ ६॥ दिगम्बर नमस्तुभ्यं दिव्याङ्गाय नमो नमः । नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ ७॥ सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे । अजिताय नमस्तुभ्यं जितमित्राय ते नमः ॥ ८॥ नमस्ते रुद्ररूपाय महावीराय ते नमः । नमोऽस्त्त्वनन्तवीर्याय महाघोराय ते नमः ॥ ९॥ नमस्ते घोरघोराय विश्वघोराय ते नमः । नमः उग्राय शान्ताय भक्तानां शान्तिदायिने ॥ १०॥ गुरवे सर्वलोकानां नमः प्रणवरूपिणे । नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ॥ ११॥ नमस्ते कामराजाय योषितकामाय ते नमः । दीर्घमायास्वरूपाय महामायाय ते नमः ॥ १२॥ सृष्टिमायास्वरूपाय निसर्गसमयाय ते । सुरलोकसुपूज्याय आपदुद्धारणाय च ॥ १३॥ नमो नमो भैरवाय महादारिद्र्यनाशिने । उन्मूलने कर्मठाय अलक्ष्म्याः सर्वदा नमः ॥ १४॥ नमो अजामलवद्धाय नमो लोकेश्वराय ते । स्वर्णाकर्षणशीलाय भैरवाय नमो नमः ॥ १५॥ मम दारिद्र्य विद्वेषणाय लक्ष्याय ते नमः । नमो लोकत्रयेशाय स्वानन्दं निहिताय ते ॥ १५॥ नमः श्रीबीजरूपाय सर्वकामप्रदायिने । नमो महाभैरवाय श्रीभैरव नमो नमः ॥ १६॥ धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः । नमः प्रसन्न आदिदेवाय ते नमः ॥ १७॥ नमस्ते मन्त्ररूपाय नमस्ते मन्त्ररूपिणे । नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ॥ १८॥ नमः सुवर्णवर्णाय महापुण्याय ते नमः । नमः शुद्धाय बुद्धाय नमः संसारतारिणे ॥ १९॥ नमो देवाय गुह्याय प्रचलाय नमो नमः । नमस्ते बालरूपाय परेषां बलनाशिने ॥ २०॥ नमस्ते स्वर्ण संस्थाय नमो भूतलवासिने । नमः पातालवासाय अनाधाराय ते नमः ॥ २१॥ नमो नमस्ते शान्ताय अनन्ताय नमो नमः । द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ॥ २२॥ नमोऽनमादि सिद्धाय स्वर्णहस्ताय ते नमः । पूर्णचन्द्रप्रतीकाश वदनाम्भोजशोभिने ॥ २३॥ नमस्तेऽस्तुस्वरूपाय स्वर्णालङ्कारशोभिने । नमः स्वर्णाकर्षणाय स्वर्णाभाय नमो नमः ॥ २४॥ नमस्ते स्वर्णकण्ठाय स्वर्णाभाम्बरधारिणे । स्वर्णसिंहानस्थाय स्वर्णपादाय ते नमः ॥ २५॥ नमः स्वर्णभपादाय स्वर्णकाञ्चीसुशोभिने । नमस्ते स्वर्णजङ्घाय भक्तकामदुधात्मने ॥ २६॥ नमस्ते स्वर्णभक्ताय कल्पवृक्षस्वरूपिणे । चिन्तामणिस्वरूपाय नमो ब्रह्मादिसेविने ॥ २७॥ कल्पद्रुमाघः संस्थाय बहुस्वर्णप्रदायिने । नमो हेमाकर्षणाय भैरवाय नमो नमः ॥ २८॥ स्तवेनानेन सन्तुष्टो भव लोकेश भैरव । पश्य मां करुणादृष्ट्या शरणागतवत्सल ॥ २९॥ श्री महाभैरवस्येदं स्तोत्रमुक्तं सुदुर्लभम् । मन्त्रात्मकं महापुण्यं सर्वेश्वर्यप्रदायकम् ॥ ३०॥ यः पठेन्नित्यमेकाग्रं पातकै स प्रमुच्यते । लभते महतीं लक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ ३१॥ चिन्तामणिमवाप्नोति धेनु कल्पतरुं ध्रुवम् । स्वर्ण राशिमवाप्नोति शीघ्नमेव न संशयः ॥ ३२॥ त्रिसन्ध्यं यः पठेत्स्तोत्रं दशावृत्या नरोत्तमः । स्वप्ने
श्री भैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ ३३॥ स्वर्णराशि ददात्यस्यै तत्क्षणं नात्र संशयः । अष्टावृत्या पठेत् यस्तु सन्ध्यायां वा नरोत्तमम् ॥ ३४॥ लभते सकलान् कामान् सप्ताहान्नात्र संशयः । सर्वदः यः पठेस्तोत्रं भैरवस्य महात्मनाः ॥ ३५॥ लोकत्रयं वशीकुर्यादचलां लक्ष्मीमवाप्नुयात् । नभयं विद्यते क्वापि विषभूतादि सम्भवम् ॥ ३६॥
म्रियते शत्रवस्तस्य अलक्ष्मी नाशमाप्नुयात् । अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ ३७॥
अष्ट पञ्चाद्वर्णाढ्यो मन्त्रराजः प्रकीर्तितः । दारिद्र्य दुःखशमनः व स्वर्णाकर्षण कारकः ॥ ३८॥ य एन सञ्चयेद्धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महा भै
रव सायुज्यं स अन्तकालेलभेद् ध्रुवम् ॥ ३९॥
इति रुद्रयामलतन्त्रे स्वर्णाकर्षणभैरवस्तोत्रं सम्पूर्णम् ॥